ॐ यज्ञेन यज्ञमयजन्त
देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं
महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति
देवः।। ॐ राजाधिराजाय प्रसह्यसाहिने । नमो वयं
वैश्रवणाय कुर्महे ।। स मे कामान् कामकामाय
मह्यं कामेश्वरो वैश्रवणो ददातु । कुबेराय
वैश्रवणाय महाराजाय नमः ।। ॐ स्वस्ति ।
साम्राज्यं, भौज्यं, स्वाराज्यं, वैराज्यं,
पारमेष्ट्यं राज्यं महाराज्यमाधिपत्यमयं समन्त
पर्यायीस्यात् सार्वभौमः सार्वायुष
आन्तादापरार्धात पृथिव्यै समुद्रपर्यान्ताया
एकराळिति । तदप्येष श्लोकोऽभिगीतो मरुतः
परिवेष्टारो मरुतस्याऽवसन् गृहे ।।
आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति
।। तन्नो सद्गुरू प्रचोदयात् ।। ॐ पूर्ण
ब्रह्माय धीमहि, तन्नो सद्गुरू प्रचोदयात् ।। |